diff --git a/sutraani/kashika/21032.txt b/sutraani/kashika/21032.txt index 9e1d5b382..c29eab47b 100644 --- a/sutraani/kashika/21032.txt +++ b/sutraani/kashika/21032.txt @@ -1 +1 @@ -तृतीयेति वर्तते। कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह समस्यते बहुलम्, तत्पुरुषश्च समासो भवति। सर्वोपाधिव्यभिचारार्थं बहुलग्रहणम्। कर्तरि — अहिना हतः, अहिहतः। करणे — नखैर्निर्भिन्नः, नखनिर्भिन्नः। परशुना छिन्नः, परशुच्छिन्नः। कर्तृकरण इति किम्? भिक्षाभिरुषितः। बहुलग्रहणं किम्? दात्रेण धान्यं लूनवान्, परशुना छिन्नवान् इह समासो न भवति। पादहारकः, गलेचोपक इति च भवति॥ \ No newline at end of file +तृतीयेति वर्तते। कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह समस्यते बहुलम्, तत्पुरुषश्च समासो भवति। सर्वोपाधिव्यभिचारार्थं बहुलग्रहणम्। कर्तरि — अहिना हतः, अहिहतः। करणे — नखैर्निर्भिन्नः, नखनिर्भिन्नः। परशुना छिन्नः, परशुच्छिन्नः। कर्तृकरणे इति किम्? भिक्षाभिरुषितः। बहुलग्रहणं किम्? दात्रेण धान्यं लूनवान्, परशुना छिन्नवान् इह समासो न भवति। पादहारकः, गलेचोपक (म•भा•) इति च भवति॥